पठत संस्कृतम्
पठत संस्कृतम्, वदत संस्कृतं
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥
पठत संस्कृतम्.....
ज्ञानवैभवं वेदवाङ्मयं
लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥ १॥
पठत संस्कृतम्.....
स्थानमूर्जितं यस्य मन्वते
वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना जना नैव जानते
भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥ २॥
पठत संस्कृतम्.....
जयतु संस्कृतम्, संस्कृतिस्तथा
संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
जयतु संस्कृतम्, जयतु मनुकुलं
जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥ ३॥
पठत संस्कृतम्.....
- मञ्जुनाथशर्मा
#संस्कृतरसानन्दगुरुकुलम् #SamskritRasanandGurukulam